तेजोराशे दिनेशस्त्वं गगनस्य अधीश्वर
दिव्यतेजोभिरुद्भासि भुवनं सर्वतोऽधुना ॥१॥
कोटिशो रश्मयस्तेऽमी अनलाख्याः सुदुर्धराः
अमृतं वर्षयन्त्येते जीवसृष्ट्यर्थमुत्तमम् ॥२॥
अणुरेणुष्वपि व्याप्तं तेजस्तेऽनन्तकारणम्
तेजसैव हि जायन्ते म्रियन्तेऽपि तथैव हि ॥३॥
ज्योतिर्मूर्तिस्त्वमेवासि ग्रहाणां सभ्यनायकः
दाहकोऽपि च संजीवी रश्मितेजःप्रभावतः ॥४॥
जीवनस्य विकासाय वसुधायाः सदा प्रभो
तेजसा रक्ष लज्जां त्वं दिनेशो गगनेश्वरः ॥५॥
No comments:
Post a Comment